Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1014
________________ शतक-२५, वर्गः-, उद्देशकः-७ ४४७ बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशासंस्कारात् हिंसादिषु अधर्मस्वरूपेषुधर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः 'आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आमरणान्तमसंजातानुतापस्यकालकशौकरिकादेरिव या हिंसादिप्रवृत्ति सैव दोषः आमरणान्तदोषः । 'चउप्पडोयारे'त्तिचतुर्युभेदलक्षणालम्बनानुप्रेक्षा ४ लक्षणेषुपदार्थेषु प्रत्यवतार समक्तारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, 'आणाविजये'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च ‘आणाविजए'त्ति एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्या अनर्थाविपाकः-कर्मफलं संस्थानानि लोकद्वीपसमुद्राद्याकृतयः 'आणारूइत्ति आज्ञा-सूत्रस्य व्याख्यानं निर्युक्यादितत्रतयावारुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइति स्वभावत एव तत्त्वश्रद्धानं 'सुतरुइत्ति आगमात्तत्वश्रद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिअथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, आलंबण'त्तिधर्मध्यानसौधशिखरारोहणार्थं यान्यालम्बव्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चाप्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः। _ 'पुहुत्तवियक सवियारे'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानांचान्यस्मादन्य स्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः । 'एगत्तवियक्के अवियार'त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ वितर्क--पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा . विद्यते विचारोऽर्थव्यञ्जनयोतरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ । 'सुहुमकिरिए अनियट्टि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्ति वर्द्धमानपरिणामत्वात्, एतञ्च निर्वाणगमनकाले केवलिन एव स्यादिति ३। _ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम्, 'अव्वहे'त्ति देवाधुपसर्गजनितं भयंचलनंवा व्यथातदभावोऽव्यथम् ‘असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगे'त्ति देहादात्मनः आत्मनो सर्वसंयोगानां विवेचनं बुद्धया पृथक्करणं विवेकः ४। मू. (९६९) से किंतं विउसग्गे?, विउसग्गेदुविहे पं०, तं०--दव्वविउसग्गेयभावविउसग्गे य, से किं तं दव्वविउसग्गे?, दव्वविउसग्गे चउबिहे पं० २०-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दव्वविउसग्गे। से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे पं०, तं०-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे?, कसायविउसग्गे चउनिटे पं०, तंजहा-कोहविउसग्गे मानविउसग्गे मायाविउसग्गे लोभविउसगे, सेत्तं कसायविउसग्गे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096