Book Title: Acharang Sutram Shrutskandh 01 Author(s): Kulchandrasuri Publisher: Porwad Jain Aradhana Bhavan Sangh View full book textPage 4
________________ प्रस्तावना (ग्रन्थस्य गरिमा ) देवगुरुप्रसादतोऽयमाचाराङ्गनामा ग्रन्थः सटिप्पणाऽक्षरगमिनकान्वितः अधिकारिणामग्रे उपन्यस्यते । अस्य चोत्पत्त्यादिवार्ता किञ्चित् प्रतन्यते । तथाहि - येऽतीता ये चानागता अर्हन्तो भगवन्तस्ते सर्वेऽपि स्वस्वतीर्थ प्रवर्त्तनादावाचारार्थमुपदिशन्ति । एवमेवाऽऽ सन्नोपकारिणा श्रमण भगवता श्रीमन्महावीरस्वामिनाऽऽविर्भूतकेवलालोकेनाऽपि महसेनवने सदेवमनुजाऽसुराणां पर्षदि प्रथमत आचारार्थ उपदिष्टः । एष एवाऽर्थः श्रीइन्द्रभूतिगौतमप्रमुखैर्गणधरैः सूत्रतो ग्रथितः । अयमपि मूलग्रन्थस्तेषां भगवतां गणधराणां . श्रीसुधर्मस्वामिना प्रणीतो वर्तते इति सर्वसम्मतोऽयं व्यतिकरः । अस्य ग्रन्थस्य प्राथम्यं प्राधान्यं च निर्विवादं, मोक्षोपायत्वात्, प्रवचनसारभूतत्वाच्च । यतोऽत्रैव मोक्षोपायभूतं चरणकरणं प्रतिपाद्यते । एष च प्रवचनसारः प्रधानमोक्षहेतुप्रतिपादनात्, अत्र च स्थितस्य सतः शेषाङ्गाध्ययनयोग्यत्वादिति । अस्य ग्रन्थस्य च द्वौ मुख्यविभागौ - ( १ ) प्रथमश्रुतस्कन्धो (२) द्वितीयश्रुतस्कन्धश्च । तत्र प्रथमश्रुतस्कन्धो नवाऽध्ययनात्मको द्वितीयश्च पञ्चचूलारूपः । साम्प्रतं प्रथम श्रुतस्कन्धस्य सप्तमं महापरिज्ञाऽध्ययनं व्युच्छिन्नम् । द्वितीयश्रुतस्कन्धस्य च पञ्चमी निशीथाख्या चूलाऽतो ग्रन्थतः पूर्वपुरुषैः पृथक्कृत्य 'निशीथसूत्रमिति' नाम्ना पृथक् प्रसिद्धिं प्रापिता वर्तते । एवं प्रथमश्रुतस्कन्धस्याऽर्थगाम्भीर्यमष्टानामध्ययनानां तदन्तर्गतानामुद्देशकानां द्वितीयश्रुतस्कन्धस्य च चतसृणां चूलिकानां तदन्तर्भूतानामध्ययनानां तेषामेवोद्देशकानां च विषयविभागोऽतिविस्तृत इति नेह प्रतन्यते, जिज्ञासुभिर्विषयानुक्रमत एव विलोकनीयः । विषयविभागविलोकनतोऽपि विद्वज्जना नतमस्तका भवन्ति श्रमणानां लोकोत्तरबाह्याऽ भ्यन्तराऽऽचार एवंविषय इति । अत एवैतद्ग्रन्थोपरि नियुक्तिचूर्णिटीकादयो विविधव्याख्याग्रन्थाः सन्ति । तन्मध्ये साम्प्रतं श्रीशीलाङ्काचार्यैर्विहिता टीका मुख्यतयाऽध्ययनाऽध्यापनार्थमुपादीयते । सा च टीका विविधविषयाणामाकरभूता तथाऽपि न सर्वेषां सुखावगाहा विस्तृतविषयत्वात् । अत एव संक्षेपरुचीनां सूत्रार्थमात्रपरिशीलनार्थिनां वाचनाप्रदातॄणां चाऽविलम्बेनैव सूत्रार्थप्रदायिकामक्षरगमनिकां तथा विषमपदानामर्थं स्फुटीकुर्वत् पादटिप्पणकं समावेशयन्नयं ग्रन्थः प्रेक्षाक्तां समुपादेयो भविष्यति । ग्रन्थस्य च समुपादाने हेतुक एव यच्चित्तोद्भूतो द्वितीयाचन्द्रलेखाकल्पो धर्मस्तदैव पूर्णिमाचन्द्रपूर्णतां प्रयाति यदा वीतराग-प्रणीताऽऽचारपथं प्राप्नोति । आचारपथप्राप्तिश्च न ज्ञानाहते । ज्ञाने च ग्रन्थस्य हेतुता सुस्पष्टा । अपि च रागद्वेषमोहाद्यभिभूतानां सर्वेषां संसारिजन्तूनां शारीरमानसानेकाऽतिकटुकदुःखोपनिपातपीडितानां चिन्तामणिकल्पोऽयं धर्मसामग्रीसंयुक्तो मनुष्यभवोऽतिदुर्लभः । तत्राऽपि प्राप्य सद्गुरुयोगं, श्रुत्वा हितोपदेशं, पीत्वा वैराग्यामृतपानं, हित्वा सकलक्लेशजालं आचाराङ्ग-सूत्रम्Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 126