Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) ...............-------- मुलं ||१३-२२|| --------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||१३-२२|| अचम्भुअगुणवंते निअजसससहरपसाहियदिअंते । निअयमणाइमणन्ते पडिवन्नो सरणमरिहते ॥ २१ ॥ उज्झिअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥२२॥ 'रागद्दोसा.' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेष:-परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं कारागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हतारो रागद्वेषा-13 रिहंतारः, तथा कर्मणां-ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टका-3 द्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्रष्टव्यः, तथा विषयाः-शब्दरूपगन्धरसस्पर्शाः कषायाः-क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्य लहन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकपायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्या-18 लङ्कारे, एवंविधा अर्हन्तो-जिना मे-मम शरणं-परित्राणं भवन्त्वित्यर्थः ॥ १३॥ 'रायसिरि०'त्ति, राज्यश्रियं-राज्य-I. लक्ष्मी अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं आसेवनं, कथंभूतं ?-दुश्चरं-सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्य-आसेव्य ये केवल श्रियं-केवलज्ञानविभूतिमहन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः-तीर्थकृतो ए-1544525555 दीप अनुक्रम [१३-२२] ~ 13~

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45