Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 34
________________ आगम (२४-वृ) “चतुःशरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------ मूलं ||४१-४८|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||४१ -४८|| A8%A%A5ॐॐॐॐॐॐ नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात् , तथा जन्म च जरा च |मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणव्याधिशतशमका, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'समय'मिति पाठे तु जन्मजरामरणच्याधिशतानि सुष्ठु-अतिशयेन मृतानि-विनष्टानि | यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्न:-आश्रित इत्यर्थः ॥ ४५ ॥ प्रकर्षण कटुविपाकतादर्शनेनो|पशर्म नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः ल सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितो-न प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघा-अवन्ध्यः सफल इत्यर्थः तमेवंप्रकारं धर्म शरणं प्रपन्नोऽहमिति ॥ ४६ ॥पापकारिणो नरान् कायन्ति-आयन्तीति नरका-रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांक्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं, तथा प्रकृष्टा वादिनः प्रवादिनः, निशब्दो निषेधार्थः, तैः प्रवादिभिः ECRECOCCAMESH दीप अनुक्रम [४१-४८] ~33~

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45