Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२४-वृ)
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
------------------- मूलं ||१३-२२|| ---------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
चतुःशरणे
अर्हच्छरणं गा. १२-.
प्रत
सूत्रांक ||१३-२२||
दिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोक-भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुदृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ २० ॥'अच्चन्भु' त्ति अत्यद्भुता-अन्येष्वसंभविनो ये गुणाः-प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते मा विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान् , तथा निजयश एव शशधरः-चन्द्रस्तेन प्रसाधिता-विभूषिता दिगन्ता-दिक्पर्यन्ता लायैः 'पयासिअ'त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते|
अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाधित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः॥२१॥ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-'उज्झि'त्ति, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि-सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा-पीडिता ये सत्त्वाः-प्राणिनस्तेषां शर-3 ण्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्त-निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आता-जन्मजरामरणादिदुःखैः पीडिता ये सवास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः-पूर्वोक्तगुणेभ्योऽर्हझ्यो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह
अरिहंतसरणमलमुद्धिलद्धसुविसुद्धसिद्धबहुमाणो । पणयसिररइअकरकमलसेहरो सहरिसं भणइ ॥ २३ ॥
दीप अनुक्रम [१३-२२]
JHEditution
mainalibrary.org
~16~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e8cf966bb5ee888ff2acc9c3170f2bd9554a159904e496aec6603a8c50f4342d.jpg)
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45