Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ आगम (२४-वृ) “चतुःशरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------------- मूलं ||१३-२२|| ---------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||१३-२२|| FACOCOCCALCACADCASCAMCADMCAM |भाषणहेतुरागद्वेषमोहरहितत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां' (कृतानुमतिकारितैः । मनोवाकायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥१॥) इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव ॥ १७ ॥ तथा 'ओस'त्ति अवस्त्रियते-गम्यते संसारभयोद्विग्नैः जीवैरित्यवसरणं समवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुत्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसक्याप्रसिहानतिशयान्निपेव्य, उपलक्षणत्वात्पञ्चत्रिं-IN शद्वचनातिशयांश्च, तथा धर्मकथा कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्य 'कहता' इति पाठे धर्मकथा कथयन्तो ये वर्तन्ते ते शरणं, पूर्व धर्मकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पीनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं-'सज्झायज्झाणसातवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुँति पुणरुत्तदोसा उ ॥२॥ [स्वाध्यायध्यानतपऔषधेषु उपदेशस्तु-15 तिप्रदानेषु । सतां गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥] शेषं तथैव ॥ १८॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा-एकेनापि बचनेन अनेकप्रकारान् संदेहान्-संशयान् , केषां ?-देहिनां-सुरासुरनरतियंगूरूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते'ति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशास|यन्तो वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्ष यान्तीति योगः, शेषं तथैव ॥ १९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवन-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वा|पयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्ता दीप अनुक्रम [१३-२२] ~ 15~

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45