Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 233
________________ १रट अश्वयुक्तिः। तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्येन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥ दन्ता विभग्ना अपि युद्धरङ्ग पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जरा: कोमलसर्बदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशा: ॥६६॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रिया:सर्वभुजो वलाढ्याः । सुतीक्षणदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते.वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८॥ ये कुञ्जराः कर्कशखबदेहा: कदापि माद्यन्ति गलन्मदाश्च । आहार योगाहलवीर्यभाजो नात्यम्ब कामा वहुलोमगण्डाः । विरूपदन्तास्त नुपुच्छकर्णा जेया वुधैर्वामनबंशजाताः ॥ ६८ । ये दीर्घदेहास्तनुदीर्घ शुण्डाः कुदन्तभाजो मलपूर्ण देहाः। स्थविष्टगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यदिपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥ रेतश्च दानञ्च सृजन्ति शवदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥ सुदीर्घदन्ता वहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनावभ्रमणाभियोगानाहारपानादिषु चातिशक्तिः ॥७३॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशलदन्ताः ॥ ७४ ।। महाशनाः क्षीणपूरोष मूत्रविस्तीर्ण कर्णास्तनुरोमगण्डाः ।

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266