Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 247
________________ सारमैययुक्तिः। अथ सारमेय परीक्षा। मृगयार्थं शाकुनार्थं कौतुकार्थि-महीक्षिता (१)। खानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम् ॥ गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ ८७ ॥ तद्यथा। सात्त्विका राजसाश्चैव तामसाश्च विधा मताः । अशान्ता अपरिक्षीणाः पवित्रा: खल्पमोजिनः ॥ ८८ ॥ खानस्त सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् । क्रुद्धा वहुभुजो दीर्घा गुरु वक्षस्तनूदरा: ॥ २८॥ जाङ्गलस्था जाविकाच खानस्ते राजसा मताः । अल्पश्रमेण ये शान्ता ललनि ह्वा गुरूदराः ॥ १०० ॥ खानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः । ब्रह्मादि जातिभेदेन चतुची सर्व एव हि ॥ १ ॥ शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः । सुशुक्लखरदन्ताश्च खानस्ते ब्रह्मजातयः ॥ २ ॥ रक्ताङ्गास्तनुलोमानो ललकर्णास्तनूदराः । दीर्घा दीर्घा नखरदाः खानस्त क्षत्रजातयः ॥ ३ ॥ ये पीतवर्णा मृदवस्तनुलोमान एव च । ऋद्धाक्रुद्धा ललज्जिह्वास्त श्वानो वैश्यजातयः ॥ ४ ॥ कृष्णवर्णास्तनमुखा दीर्घरोमाण एव च । अक्रडाः श्रमयुक्ताश्च ते खान: शूद्रजातयः ॥ ५ ॥ (१) मृगयत्व शाईर्थ कौतुकार्थं महीक्षिता इति (क) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266