Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 261
________________ । २२७ धातु-नौयानयुक्तिः। धात्वादोनामतो वक्ष्ये निर्णयं तरि-संश्रयम् । कनकं रजतं तान त्रितयं वा यथाक्रमम् ॥ ८ ॥ ब्रह्मादिभिः परिन्यस्य नौका चित्रण-कर्माणि । चतुःशृङ्गा त्रिशृङ्गाभा (१) दिशृङ्गा चैकशृङ्गिणो ॥ १० ॥ सितरतापौतनौलवर्णान् दद्याद् यथाक्रमम् । केशरी महिषो नागो हिरदो व्याघ्र एव च ॥ ११ ॥ पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् । नावां (२) मुखे परिन्यस्य आदित्यादि-दशाभुवाम् ॥ १२ ॥ कलसो दर्पणश्चन्द्रस्वैदशानां महोभुजाम् । हंसः केको शुकः सिंहो गजोऽहिर्व्याघ्र षट्पदौ । १३ ॥ आदित्यादिदशा जात(ता) नौकोपरि परिन्यसेत् । चतुस्त्रित्वेक विमिता चतुर्वर्णा यथाक्रमम् ॥ १४ ॥ आच्छादनं चतुष्पाते कमला नाम कथ्यते । तत् संख्याशतपादे मे तदर्धाई मिवापरात् ॥ १५ ॥ शुक्लरतोथचित्रश्च पौतः कृष्णस्त्रिभिस्त्रिभिः । अवज्ञासिक संज्ञानां वस्त्रवर्णाष्टकं विदुः ॥ १६ ॥ नौकासु मणिविन्यासो विज्ञेयो नवदण्डवत् । मुक्तास्तवकैर्युक्ता नौका स्यात् सर्वतो भद्रा ॥ १७ ॥ तत् संख्या चेदथ (३) रसवेद यसम्मिता क्रमशः । कनकादीनां माला(मनो) जयमालेति गद्यते सद्भिः ॥ १८ ॥ (१) चतुःश्टङ्गाद्रिश्टङ्गाभा इति (क) पुस्तक पाठः । (२) नौका इति (ख) पुस्तक पाठः । (३) चेहसुरस इति (ग) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266