Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
२२६
युक्तिकल्पतरो
लोलायाः फलमाधत्ते एवं सव्र्वासु निर्णयः ।
वेगिन्याः परतो या तु सा शिवायोत्तरा यथा ॥ १ ॥ भोजोऽपि -
नौकादोर्घं यथेच्छ स्यात् तबै तानि विवर्जयेत् । हस्तसंख्या परित्याज्या वसुवेद (१) ग्रहोत्तरे ॥ २ ॥ षष्ठात्तरमिता नौका कुलं हन्ति वलं धनम् ।
नवतेरुत्तरे यापि या चत्वारिंशतेः परा ॥ ३ ॥ एतेन चत्वारिंशत् षष्टि नवति (२) संख्या ततत्परतोऽपि । यावदपरदशकं तावदेव तत्फलमिति ॥ ४ ॥
इति दीर्घा
1
अथोवता |
राजहस्तद्दयमिता तावत्प्रसरणोन्नता ।
इयमूर्द्धाभिधा (३) नौका चेमाय पृथिवी भुजाम् ॥ ५ ॥ ऊर्द्धा मूर्द्धा स्वर्णमुखी गर्भिणौ मन्थरा तथा । राजस्तैकैक या नाम पञ्चत्रयं भवेत् ॥ ६ ॥
अत्रानृर्द्धा गर्भिणो च निन्दितं नामयुग्मकम् । मन्थरायाः (४) परा यास्तु ताः शुभाय यथोद्भवम् ॥ ७ ॥ भोजोऽपि -
वाणाग्न्युत्तरतो मानं नौकानाम शुभं वहेत् ।
पञ्चाशदूर्द्धादुल्लासं धननाशं त्रयोऽर्द्धतः ॥ ८ ॥
इत्युन्नता ।
(१) वसुदेव इति (क) पुस्तकपाठः । (२) न भवति इति (ख) पुस्तकपाठः । (३) इयमूर्द्धाविधा इति (ग) पुस्तकपाठः । ( 8 ) मम्यरीयाः इति (घ) पुस्तकपाठः ।

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266