Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 249
________________ २१५ यानयुक्तिः। यो मोहादथवाज्ञानाहलिमन्यं प्रयच्छति । वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥ १२ ॥ इति श्रीभोजराजोये युक्ति कल्पतरौ अजादि लक्षणम् । । अथ चतुष्पदयानोद्देशः । ये ब्रह्मजात्यादि विभेदतोऽमी, मया निरुता इह वाजिमुख्याः । दिशानया सर्वचतुष्यदानां ; भेदो विधेयो विदुषादरेण ॥ १३ ॥ यथा यथाखादिकपोषणेन, यानेन वा दोष गुणौ भवताम् । तथा तथैवान्य चतुष्पदानां; प्रकोर्तितौ दोषगुणौ वुधन ॥ १४ ॥ वरमयानमपोषणमेव वा वरमिवान्य शरीर मपोषणम् । नखलु दोषयुतं चतुष्पदं स्पृशति पश्यति शोभनचेतनः ॥१५॥ सुराविन्दुःषयति (१) पयोघटशतं यथा। तथा सव्वं दूषयति दोष दुष्टश्चतुष्पदः ॥ १६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ चतुष्पद यानोद्देशः । (१) सुरारिविन्दूर्दोषयति इति (क) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266