Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 254
________________ युक्तिकल्पतरौअश्वः सिंहश्च तस्याग्रे प्रादित्यादि दशोत्तरान् ॥ ५१ ॥ मणि-नियमस्तु दण्डवत् । रक्तः शुक्लच पीतश्च कृष्णचित्रस्तथारुणः । नौल: कपिल इत्युक्तः पताकानान्तु संग्रहः । चतुर्दोलः सपताकः शुभयानमिति स्मृतः ॥ ५२ ॥ मुक्तास्तवकद्द शभिर्युक्तः स्याद्राजकेशानाम् । चामरदण्डैदशभिटिंग्जयिनां चतुर्दोलः ॥ ५३ ॥ चामपक्षस्य पुच्छञ्चेत् (१) सर्वोपरि परिन्यसेत् । यात्रासिद्धिरयं नाम्ना चतुर्दोलो महीभूजाम् ॥ ५४ ॥ अथ निछदिः। स्तम्भच्छादरहितो निश्चदिरक्तचतुर्दोलः ॥ ५५ ॥ मानं पूर्ववत् । स पुनर्हि विधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः । ध्वजान् षड़त्र न्यस्यन्ति षड्वर्ग(न्ध) विजयैषिणः ॥ ५६ ॥ तेषां मानन्तु चत्वारः स्वामिहस्तै कसम्मिताः । कोणेषु पश्चादग्रे च हस्तहयमितौ ध्वजौ ॥ ५७ ॥ सुवर्ण रजतं युग्म त्रिविधानां महोभुजाम् । मणिचामरकुम्भाणां खनादौनां विनिश्चयः ॥ ५८ ॥ चतुर्दोलध्वजे राज्ञां विजेयो नवदण्डवत् । निर्ध्वजे च चतुर्दोले मानमन्यतमं शृणु ॥ ५ ॥ आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः । विजयो नाम विज्ञातश्चतुर्दोलो महीभुजाम् ॥ ६० ॥ (१) वासपक्षश्च पुच्छश्चत् इति (क) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266