Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
२१८
युक्तिकल्पतरौअन()पादिकजातानां पर्यङ्गेषु न्यसेत् क्रमात् । पद्मशगजाश्वालिहंसकोकशुकान् (१) क्रमात् ॥३३॥ आदित्यादि दशाजानां मणिरूपेण विन्यसेत् । महोन्द्राणां विशेषेण सिंहमानव शस्यते ॥ ३४ ॥ निर्माण शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः । तदेवावक्रदण्डन्तु खटायानमिति स्मृतम् ॥ ३५ ॥ अस्यापि पूर्ववन्मान मणि धात्वादि-निर्णयः । विशेषश्चरणोच्छ्रायः परिणाहाई-सम्मितः । तदेव चेविश्वरणं पोठयानमिति स्मृतम् ॥ ३६ ॥ तस्य भेदो विधा दण्डवक्रावक्र (२) प्रभेदतः । मानादिकं पूर्बतुल्यं विशेषाच्चतुरस्रता ॥ ३० ॥ एवमन्यानि मिश्राणि यानानि विविधानि च । सामान्याख्यानि जानीयात् शिल्पिभिर्निर्मितानि वै ॥३८ । मनोहरत्वं लघुता दृढ़तेति गुणत्रयम् । प्रोक्तं हिपदयानानां महजं भोजभूभुजा ॥ ३८ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ हिपदयानपरीक्षा।
अथ विशेष विपदयान कथनम् ।
राज्ञो यहिपदं यानं विशेषाख्यमलं विदुः (३) ॥ ४० ॥
तद्यथा। चतुभिरुह्यते यत्त चतुर्केलं तदुच्यते ॥ ४१ ॥
(१) शुकाः इति (क) पुस्तक पाठः । (२) रनावक्र इति (ख) पुस्तकपाठः । (३) -मतद्विदुः इति (ग) पुस्तक पाठः।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266