Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
युक्तिकल्पतरोलघु प्रमाणास्तु गुरूदरा ये येऽमध्यभक्षा वहुपुत्रकाच । प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता
स्त चान्त्यजाः कुक्करजातयः स्यः ॥ ६ ॥ दिजाति चिह्नसंसर्गात् हिजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिधननाशनः ॥ ७ ॥ भोजोऽपि,द्विजातिर्वा विजातिर्वा विजाति: श्वा महीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खपरीक्षा ।
भरद्वाजस्तु वलिप्रकरणे--
अजलक्षणमाह।
तदनुसारेन भोजोऽपि,नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् । तेषां शुभाय निर्दिष्टं पशुवस्तवयं (१) वलौ ॥ ८ ॥ तद्यथा,ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिभिरुत्सृज्यास्त सार्थोपसिद्धये ॥ १० ॥ ये पीता हरिता वापि नरजातरुदौरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥
(१) पशुवस्तुवयं इति (क) पुस्तक पाठः ।

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266