Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 244
________________ युक्तिकल्पतरोव्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः । ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ ७१ ॥ चतुर्विधानां लोकानां त एव स्युः शुभावहाः । यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ ७२ ॥ तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् । दुर्वलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ ७३ ॥ वातपित्तकफोद्रेका व्याधयो ये वृषे मताः । तेषानुपशमः कार्यो यथास्वं विधिना बुधैः ॥ ७४ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ वृषपरीक्षा । अथ महिष परीक्षा। विपक्षे हयसन्त्रासं कुरुते येन हेतुना । भारं वहति वा दूरं महिषोऽस्मानिरूप्यते । ब्रह्मक्षत्रियविटशूद्रात्यजभेदेन पञ्चधा ॥ १५ ॥ तद्यथा। भृशं ष्णा: पवित्राश्च वहट्टषण घोणकाः । वहाशिनो मारकाच महिषा ब्रह्मजातयः ॥ ७६ ॥ केकराः कामला: (१) स्थूला भृशं क्रुद्धाश्च मारकाः । वह्वाशिनो बहुवला महिषाः क्षत्रजातयः ॥ ७७॥ श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः । अमारका वहुवला महिषा: वैश्यजातयः ॥ ७८ ॥ क्षीणाः क्षोणवलाः क्षीणशृङ्गघोणारुषश्च (२) ये। अल्पाशिनो भारसहा महिषा: शूद्रजातयः ॥ ७९ ॥ (१) कपिलां इति (क) पुस्तक पाठः । (२) घोषारुषाश्च इति (ख) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266