Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod
View full book text
________________
२०५
गजयुक्तिः । राष्ट्रदुर्ग (१) वलामात्य-क्षयकत् तं परित्यजेत्। चर्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ २४ ॥ भालो स कुरुते नागो भत्तः कुलधनक्षयम् । पुष्टो विशालः सहन्तः सत्कारोऽपि शुभोऽपि सन् ॥ न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ २५ ॥ सर्वेषां गजदोषाणामुक्त एव महानयम् । येनैकेन गुणाः सर्वे टणायन्ते सुनिश्चितम् ॥ २६ ॥
पालकाप्यस्तु *। क्षीणदन्ताङ्ग शुण्डत्वं विषमत्वं रदादिषु । शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ २७ ॥
गाय॑स्तु। ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः, क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः । वश्यादिभिः खलु गुनैरहितो हिताय ; ते भूभुजामभिमता न हि वोक्षणीयाः ॥ २८ ॥ यो न स्रवेन्मदजलं तनुमूईभागो, निर्वीर्यतामुपगतो वहुभोजनेऽपि । नेच्छत्यसावुपगतानपरान् निहन्तुं';
भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ २८ ॥ दोषैर्दष्टान् गजान् राजा न वीक्षेत कदाचन । न्यसेवा परराष्ट्रेषु नगरात् क्रियते वहिः ॥ ३० ॥
(१) राष्ट्रदुद्दद्दला (क) पुस्तक पाठः ।
* पालकाप्यर्षिविरचित हस्यायुर्वेद: द्रष्टव्यः ।

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266