Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 241
________________ वषयुक्तिः। यदृच्छा भोजिन: क्षौणा वृषभा वैश्यजातयः । कृष्णाङ्गाः क्रू रहृदया अपवित्राः सदाशिनः ॥ ४० ॥ वृहहषणरोषाश्च (१) वृषभाः शूद्रजातयः । द्वयोर्लक्षणसम्पर्कात् द्विजातिवृषभो भवेत् ॥ ४१ ॥ वात्स्यस्तु,पृथ्वीतले समुत्पना गजाखा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ॥ ४२ ॥ एतन्मतानुसारेण भोज: प्राह महीपतिः । ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ॥ ४ ॥ वाशिन: खल्परोषास्ते वृषाः सात्विका मताः । व्यक्ताव्यक्तरुषः(षा:) शुद्धा दृढ़ा भारवहाः शुभाः ॥ ४४ ॥ वहाशिनो वहुवलास्ते हषा राजसा मताः । विवर्णा विकताङ्गाश्च निर्वला: स्वल्पभोजिन: ॥ ४५ ॥ अपवित्रा वृहद्रोषास्ते वृषास्तामसा मताः । लक्षणहयसम्बन्धात् द्विगुणो वृषभो भवेत् । विलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ ४६ ॥ ___ अथ गुणाः। नोलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः । भोजदेवेन लिखिता इत्यष्टौ वृषभा गुणाः ॥ ४७ ॥ तद्यथा,-- खेतादन्यतरो वर्ण: खेतः खुरविषाणयोः । ललाटपुच्छयोः खेतः स नौल: शुभमावहेत् ॥ ४८ ॥ यो हृष्टपुष्टो रम्यात्मा सुविभक्तातनुः शुभः । (१) वृहदणषरोषाश्च इति (क) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266