Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 234
________________ युक्तिकल्पतरोते सार्बभौमाभिजनप्रसूता विशुद्धमुक्ताः प्रभवन्ति (१) चेषु ॥ ७५ ॥ ये दोघंशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरीतकाश्च । विस्तब्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) । महाप्रमाणामितमौक्तिकानि भवन्ति चैतबिजगाद काप्यः ॥ ७७ ॥ एकजातिः समुत्पनो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धञ्चत्यत्र दृश्यते ॥ ७ ॥ शुद्धद्दिजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथाखं वलवीर्यवान् ॥ ७ ॥ दिजातिहयजातो यः (३) स शूर इति कथ्यते । दिजाति जारजोत्पन्न उद्दान्त इति कथ्यते ॥ ८० ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमहति ॥ ८१ ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालागा: पवित्राश्च ब्राह्मणा: स्वल्पभोजिनः । शूरा(ला) विशाला वह्वाशा: क्रुद्धाः क्षत्रियजातयः ॥ ८२॥ अथ गुणाः। यथा रक्तं यथा खङ्गो यथा स्त्री सप्तयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥ रम्यो भौमो (४) ध्वजोऽधौरो वीरः शूरोऽष्टमङ्गलः । (१) प्रवदन्ति इति (क) पुस्तकपाठः । (२) तेज स्खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (३) हयसम्भूताः इति (ग) पुस्तक पाठः। (४) वीरो इति (च) पुस्तक पाठः ।

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266