________________
युक्तिकल्पतरोते सार्बभौमाभिजनप्रसूता
विशुद्धमुक्ताः प्रभवन्ति (१) चेषु ॥ ७५ ॥ ये दोघंशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरीतकाश्च । विस्तब्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) । महाप्रमाणामितमौक्तिकानि भवन्ति चैतबिजगाद काप्यः ॥ ७७ ॥
एकजातिः समुत्पनो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धञ्चत्यत्र दृश्यते ॥ ७ ॥ शुद्धद्दिजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथाखं वलवीर्यवान् ॥ ७ ॥ दिजातिहयजातो यः (३) स शूर इति कथ्यते । दिजाति जारजोत्पन्न उद्दान्त इति कथ्यते ॥ ८० ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमहति ॥ ८१ ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालागा: पवित्राश्च ब्राह्मणा: स्वल्पभोजिनः । शूरा(ला) विशाला वह्वाशा: क्रुद्धाः क्षत्रियजातयः ॥ ८२॥
अथ गुणाः। यथा रक्तं यथा खङ्गो यथा स्त्री सप्तयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥ रम्यो भौमो (४) ध्वजोऽधौरो वीरः शूरोऽष्टमङ्गलः ।
(१) प्रवदन्ति इति (क) पुस्तकपाठः । (२) तेज स्खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (३) हयसम्भूताः इति (ग) पुस्तक पाठः। (४) वीरो इति (च) पुस्तक पाठः ।