________________
१रट
अश्वयुक्तिः। तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्येन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥ दन्ता विभग्ना अपि युद्धरङ्ग पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जरा: कोमलसर्बदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशा: ॥६६॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रिया:सर्वभुजो वलाढ्याः । सुतीक्षणदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते.वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८॥ ये कुञ्जराः कर्कशखबदेहा: कदापि माद्यन्ति गलन्मदाश्च । आहार योगाहलवीर्यभाजो नात्यम्ब कामा वहुलोमगण्डाः । विरूपदन्तास्त नुपुच्छकर्णा जेया वुधैर्वामनबंशजाताः ॥ ६८ । ये दीर्घदेहास्तनुदीर्घ शुण्डाः कुदन्तभाजो मलपूर्ण देहाः। स्थविष्टगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यदिपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥ रेतश्च दानञ्च सृजन्ति शवदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥ सुदीर्घदन्ता वहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनावभ्रमणाभियोगानाहारपानादिषु चातिशक्तिः ॥७३॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशलदन्ताः ॥ ७४ ।।
महाशनाः क्षीणपूरोष मूत्रविस्तीर्ण कर्णास्तनुरोमगण्डाः ।