________________
१८८
युक्तिकल्पतरौ -
अथ गज परीक्षा |
तत्रकालः ।
ऐन्द्रमित्रवरुणानिल पुष्याचन्द्र तोयरवि वारिजतारे | सूर्य्य-शुक्र गुरु सोमजवारे (१) श्रेयसे भवति कुञ्जरयानम् ॥५८॥ लग्ने चरे शुभसमाश्रित वीक्षिते वा. चन्द्रस्य दृष्टिरिभ-यानविधौ विरुद्धा । सौम्ये दिने करनिशाटव सुश्रवण्यतोयेशमैत्र (२) मदितिश्च शुभग्रहाहः ॥ ६० ॥ स्यात्कुच्चरक्रयणदर्शनदानकाल: शेषेषु दुखः फलमार्कसुतेऽह्नि (३) चैव । गजानामष्टधा भेदः संक्षेपेण प्रकाश्यते । ऐरावतः पुण्डरोको वामनः कुमुदोऽज्ञ्जनः ॥ ६१ ॥ पुष्पदन्तः सर्व्वभौमः सुप्रतीकञ्च दिगगजाः ।
एषां वंशप्रसूतत्वात् (तादा) गजानामष्टजातयः ॥ ६२ ॥ ये कुञ्जराः पाण्डुरसर्व्वदेहाः सुदीर्घदन्ताः सितपुष्पदन्ताः । आलोमशा अल्पभुजो वलाच्या महाप्रमाणा लघुपुष्टलिङ्गाः ॥६३॥ क्रुद्धाः समौके मृदवोऽन्यकाले नद्यम्बुपाना ( ४ ) वहुलोग्रदानाः । विस्तीर्णदानास्तनुलोमपुच्छा ऐरावतस्याभिजनप्रसूताः ॥ ६४ ॥
(१) सौम्यवासरे इति (क) पुस्तक पाठः ।
(२) साभेदिनेकर निशाटवसुश्रवण्यतोशेष मेद्र इति (ख) पुस्तक
पाठ: ।
(३) सुतानि चैव इति (ग) पुस्तक पाठः ।
(४) लघुम्बु पाना इति (घ) पुस्तक पाठः ।