________________
गजयुक्ति: ।
सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि ।
वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ ८४ ॥
तद्यथाह भोजः ।
विभक्तावयवः पुष्टः सुदन्तः सुमहानपि । तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्धकः ॥ ८५ ॥ अङ्कुशादिप्रहारेण यस्य भौतिर्न जायते ।
स भौमोऽयं गजः शुद्धो रामः सर्व्वार्थ-साधनः ॥ ८६ ॥ शुण्डाग्रात् पुच्छपर्य्यन्त' रेखा यस्यैव दृश्यते । ध्वजः शुद्दो गजो नाम साम्राज्य प्राणदायकः ॥ ८७ ॥ समौ कुम्भौ खराकारौ श्रावर्त्ती तत्र चोच्छ्रयौ (१) । अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ ८८ ॥ आवत: पृष्ठतो यस्य स्वनाभिमभिविन्दति । पुष्टाङ्गो वलवान् वौरो राज्ञामभिमतप्रदः ॥ ८६ ॥ महाप्रमाण: पुष्टाङ्गः सुदन्तश्चारुगण्डकः । भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मी-विवर्द्धनः ॥ ६० ॥ सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः । रक्तकुम्भाचिवीय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ ८१ ॥ अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही । नारिष्टानीतयस्तत्र यत्त्रास्तेऽयं गजेश्वरः ॥ ८२ ॥ आयोजनशतं यावदनर्थं कुरुते क्षयम् । नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रेः कलौ युगे ॥ ८३ ॥ शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः । ग (अ)ण्डयोर्गण्डयोर्मध्ये आवर्त्त : शुभलक्षणः ॥ ८४ ॥
( १ )
चोव्रतौ इति (क) पुस्तक पाठः ।
२६
२०१