Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

Previous | Next

Page 5
________________ चतुर्थः प्रकाशः । . ७८३ जलस्वलनार्थ पालीबन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुध्यादिति भावः। अत्रान्तरलोका:यथा नृणां चक्रवर्ती सुराणां पाकशासनः ।। तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ १॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । . तुलया संमितो मन्ये प्रकर्षः सुखदुःखयोः ॥ २ ॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृतवृष्णया । निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः ॥ ३ ॥ निवृत्तायां धनेच्छायां पावस्था एव संपदः । .. अङ्गल्या पिहिते कर्णे शब्दातं विजुम्भते ॥ ४ ॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः ।... मल्योः पिधान पिहितं ननु विश्वं चराचरम् ॥ ५ ॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ? । ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥ ६ ॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्ति सुखशालिनः । किंवा विमुक्तः शिरसि शृङ्ग किमपि वर्त्तते ? ॥ ७ ॥ किं रागहेषसंकीणं किंवा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवसौख्यत: ? ॥ ८ ॥ परप्रत्यायनासारैः किंवा शास्त्रसुभाषितैः । मौलिताक्षा विमृशन्तु संतोषास्वादजं सुखम् ॥ ८ ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 102