Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 76
________________ परिशिष्ट हैम-उत्कृष्टेऽनूपेन ॥ २॥२॥१९ ॥ उत्कृष्टार्थादनूपाभ्यां युक्ताद् द्वितीया स्यात् । अनुसिद्धसेनं कवयः । उपोमास्वातिं संग्रहीतारः। पा०-हीने ॥१॥16॥ सिद्धा. कौ० सू० ५५० । हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेहीना इत्यर्थः । उपोऽधिके च ॥ १७ ॥ सिद्धा. कौ० कु. ५५१ । अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । उप हरिं सुराः । १९ स्मृत्यर्थदयीशा कम ॥ १॥३ ॥ स्मरणार्थानां धातूनां दयितेरीष्टेश्च यत्कर्म तत्कर्म वा भवति । मातुः स्मरति, मातरं स्मरति । मातुरध्येति, मातरमध्येति । सर्पिर्दयते, सर्पिषो दयते । लोकानामीष्टे, लोकानीष्टे । हैम-स्मृत्यर्थ-दयेशः ॥ २१॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति । मातर स्मरति। मातुः स्मयते । माता स्मर्यते । सप्पिषः सपिर्वा दयते, लोकानामीटे, लोकानीष्टे । पा.-अधीगर्थदयेशा कम्मणि ॥२॥५२॥ सिद्धा. कौ० ५। एषां कर्मणि शेषे षष्ठी स्यात् ।मातुः स्मरणम् सर्पिषोदयनं, ईशनं वा॥ १३ शीस्थासोऽधेराधारः ॥ २१ ॥ अधिपूर्वाणां शीङ् स्था आस् इत्येतेषां य आधारः क्रियाश्रयस्य कर्तुः कर्मणो वा धारणात् अधिकरणं तत् कर्म भवति । प्राममधिशेते । ग्राममधितिष्ठति । प्राममध्यास्ते । अधेरिति किम् ? ग्रामे शेते। पर्वते तिष्ठति । नद्यामास्ते । हैम. अधेः शी स्थाऽऽस भाधारः ।। २।२॥२०॥ अधेः सम्बद्धानां शीड्स्थाऽऽसामाधारः कम्म स्यात् । प्राममधिशेते, अधितिष्ठति, अध्यास्ते वा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100