Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
१५
दुह्यति, ईर्ष्यति, असूयति वा । यं प्रति कोपः किम् ? भार्यामीति, मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्या अक्षमा | असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते ।
३२ स्पृहेर्वा ॥ १।३।१३९ ॥
स्पृहेर्धातोः कर्मणि वर्तमानाच्चतुर्थी वा भवति । धर्माय स्पृहयति, धर्मं स्पृहयति ।
है० स्पृहेoर्व्याप्यं वा ॥ २।२।२६ ॥
स्पृहेर्व्याप्यं वा संप्रदानं स्यात् । पुष्पेभ्यः पुष्पाणि वा स्पृहयति । पा० स्पृहेरीप्सितः || १ | ४ ३६ ॥ सि० कौ० सू० ५७४ ॥ स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्पितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञा, पुष्पाणि स्पृहयति ।
३३ मन्यस्याकाकादिषु यतोऽवज्ञा || १३ | १४० ॥
यस्मादवज्ञा अन्यस्य विज्ञायते तस्मिन् काकादिवर्जिते मन्यतेराप्ये कर्मणि ङेभ्यांभ्यसो भवन्ति वा । न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये । न त्वा शुने मन्ये, न त्वा श्वानं मन्ये । तृणादेरपि निकृष्टं मन्ये इत्यवजानाति । अकाकादिष्विति किम् ? न त्वा काकं घूकं शृगालं मन्ये ।
है० मन्यस्याऽनावादिभ्योऽतिकुत्सने ॥ २ २।१४ ॥
अतीव कुत्स्यते येन तदतिकुत्सनं । तस्मिन् मन्यतेव्र्व्याप्ये वर्तमानानावादिवर्जाच्चतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावं, अन्नं, शुकं, शृगालं, काकं वा मन्ये । कुत्सन इति किम् ? न त्वा रत्नं मन्ये । करणाssयश्रणं किम् ? न त्वा तृणाय मन्ये । युष्मदो मा भूत् । अतीति किम् ? त्व तृणं मन्ये ।
पा० मन्यकर्मण्यनादरे विभाषाप्राणिषु ॥ २।३।१७ ॥ सि० कौ० सू० ५८४ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100