Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 84
________________ परिशिष्ट १३ पा० नमःस्वस्तिस्वाहास्वधाऽलंवषढ्योगाच्च ॥ २/३ १६ ॥ सि० कौ० सू० ५८३ ॥ एभिर्योगे चतुर्थी स्यात् । हरये नमः । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । २९ भद्रायुष्यक्षेमसुखार्थहितार्थहितैराशिषि ॥ १।३।१४१ ॥ भद्राद्यर्थेर्द्वितशब्देन च योगेऽप्रधानेऽर्थे वर्तमानादाशीर्विषये डेभ्यभ्यसो भवन्ति । भद्रमस्तु जिनशासनाय । भद्रमस्तु जिनशासनस्य । एवं भद्रं कल्याणं आयुष्यं दीर्घमायुः चिरंजीवितमस्तु देवदत्ताय देवदत्तस्य वा । क्षेमं कुशलं निरामयं भूयात् संघाय संघस्य वा । सुखं शर्म शं भवतात् प्रजाभ्यः प्रजानां वा । अर्थः प्रयोजनं कार्यं जायतां दूताय दूतस्य वा । हितं पथ्यं भूयात् जिनदत्ताय जिनदत्तस्य वा । हितग्रहणमाशिषि पक्षे षष्ठ्यर्थम् । अस्त्येवोत्तरेण चतुर्थी । है० तद्भद्राऽऽयुष्य-क्षेमार्थाऽर्थेनाऽऽशिषि ॥ २।२।६६ ॥ तदिति हितसुखयोः परामर्शः । हिताद्यर्थैर्युक्तादाशिषिगम्यायां चतुर्थी वा स्यात् । ह्नितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं शर्मं वा प्रजाभ्यः प्रजानां वा भूयात्, आयुष्यमस्तु चैत्राय चैत्रस्य वा । अर्थः कार्य प्रयोजनं वा भूयान्मत्राय मैत्रस्य वा । है० हितसुखाभ्याम् ॥ २।२।६५ ॥ आम्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् । पा० चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशल सुखार्थहितैः || २|३|०३ ॥ सिद्धा० कौ० ६३१ ॥ एतदर्थैर्योगे चतुर्थी वा स्यात्, पक्षे षष्ठी । आशिषि आयुष्यं चिरजीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं, भद्रं कुशलं, निरामयं सुखं, शम् . अर्थः, प्रयोजनं हितं, पथ्यं वा भूयात् । ख 1 , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100