Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट हैम-काले भात् नवाऽऽधारे ॥ २॥२॥४८॥
कालवृत्तेनक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमन्नीयात् । काल इति किम् ? पुष्येऽः । भादिति किम् । तिलपुष्पेषु यत्क्षीरम् । आधार इति किं ? अद्य पुष्यं विद्धि ।
पा० नक्षत्रे च लुपि । २।३।४५ ॥ सि. कौ० सू० ६४१॥
नक्षत्रे प्रकृत्यर्थे योलुप्पंज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानातृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् । पुष्ये शनिः ।
२. समो ज्ञोऽस्मृतौ चाप्ये ॥ १॥३।१३३ ॥
संपूर्वस्य जानातेस्मृतौ वर्तमानस्य यदाप्यं प्राप्यं कर्म तत्र टा भ्याम् भिसो वा भवन्ति । मात्रा संजानीते, मातरं संजानीते | अस्मृताविति किम् ? मातरं संजानाति, मातुः संजानाति । स्मरतीत्यर्थः।
हैम-समो ज्ञोऽस्मृतौ वा ॥ २५ ॥
अस्मृत्यर्थस्य सञ्जानातेर्यद्वयाप्यं तद्वत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा सजानीते । अस्मृताविति किम् ? मातरं सञ्जानाति।
पा० संज्ञोऽन्यतरस्यां कर्मणि । २।३।२२ ॥ सि० को० नं. ५६० ॥ सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानी ते। २५ पभेदैस्तद्वयाख्या ॥ १।३।१३० ॥
यस्य मेदिनः प्रकारवतोऽर्थस्य मेदैः प्रकारैः विशिष्टः तद्वतः तत्प्रकारचदर्थकस्य आख्या भवति । ततः टा भ्याम् भिगो भवन्ति । अक्ष्णा काणः । पादेन खजः । प्रकृत्या दर्शनीयः । जात्या ब्राह्मणः ।
हैम. यभेदैस्तद्ववास्या ॥ २२॥४६॥
यस्थ मेदिनो मेदैः प्रकारैस्तद्वतोऽर्थस्याख्या निर्देशः स्यात् तद्वाचिन. स्तृतीया स्यात् । अरुणा काणः, पादेन खजः, प्रकृत्या दर्शनीयः, तद्वदग्रहणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100