Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
अपपरि इत्येताभ्यां युक्ते वर्ज्ये ङसिभ्यां भ्यसो भवन्ति । अपपाटलीपुत्राद् अपत्रिगर्तेभ्यो वृष्टो देवः । तत्र गर्तान् वर्जयित्वेत्यर्थः । एवं परियोगेऽपि है० पर्यपाभ्यां वयें ॥ २२ ७१ ॥
वर्ज्ये वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप चा पाटलिपुत्राद् वृष्टो मेघः । वर्ण्य इति किम् ? अपशब्दशे मैत्रस्य ।
२१
पा• पञ्चभ्यपापरिभिः || २|३|१० ॥ सि० कौ० नं० ५९८ ।
एतैः कर्मप्रवचनीयैर्योगे पंचमी स्यात् । अपहरेः, परिहरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिपरि । आमुक्तेः संसारः । आ सकलाद्ब्रह्म । ४७ प्रतिनिधि प्रतिदाने प्रतिना || १३ | १६० ॥
प्रतिनिधौ प्रतिदाने च वर्तमानेन प्रतिना युक्ताद् ङसिभ्यांभ्यसो भवन्ति । प्रद्युम्नो वासुदेवात् प्रति, सदृश इत्यर्थः । तिलेम्यः प्रतिमाषान् प्रयच्छति । तिलान् गृहीत्वामाषान् ददाति ।
० यतः प्रतिनिधि प्रतिदाने प्रतिना । २।२।७२ ॥
प्रतिनिधिर्मुख्यसदृशोऽर्थः । प्रतिदानं गृहीतस्य विशोधनं । ते यतः - स्यातां तद्वाचिनः प्रतिना योगे पंचमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिळेभ्यः प्रतिमाषानस्मै प्रयच्छति ।
पा० प्रतिनिधि प्रतिदाने च यस्मात् ॥ २|३|११ ॥ सि० कौ० नं० ६०० ।
अत्र कर्मप्रवचनीयैर्योगे पंचमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ।
४८ स्थानिय कर्माधारे ॥ १।३।१६१
स्थाने प्यादेशान्तेन युक्ते कर्मण्याधारे च ङसिभ्यांभ्यो भवन्ति । प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । स्थानिग्रहणं किम् ? प्रासादमारुह्य प्रेक्षते । है० • गम्ययपः कर्माssधारे || २|२|७४ ||
गम्यस्याप्रयुज्यमानस्य यबन्तस्य कर्माssधारवाचिनः पंचमी स्यात् । प्रासादादासनाद्वा प्रेक्षते, गम्यप्रहणं किम् ? प्रासादमारुह्य शेते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100