Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 98
________________ परिशिष्ट २७ कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पंचकृत्वोऽहो भोजनम् । द्विरो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् । ६. कुशलाऽऽयुक्तेनाऽऽसेवायाम् ॥ १॥३।७४ ।। कुशल भायुक्त इत्येताभ्यां युक्ते आधारे आसेवायां तात्पर्ये गम्यमाने जयोस्सुपो वा भवन्ति । कुशलो विद्याग्रहणे, कुशलो विद्याग्रहणस्य । आयुक्तस्तपश्चरणे, आयुक्तस्तपश्चरणस्य । अन्यत्र कुशलश्चित्रकर्मणि, न च करोति । आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः । है. कुशलाऽऽयुक्तेनाऽऽसेवायाम् ॥ २॥२॥९७ ॥ आभ्यां युक्तादाधारवाचिनः सप्तमी वा स्यात् , आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा। आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, न तु करोति । आयुक्तो गौः शकटे आकृष्य युक्त इत्यर्थः । पा० आयुक्तकुशलान्यांचासेवायाम् ॥ १० ॥ सि. को. नं. ६३० । आभ्यां योगे षष्ठीसप्तम्यौ स्तः तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषयुक्त इत्यर्थः। १२ स्वामीश्वराधिपतिदायावसाक्षिप्रतिभूपसूतश्च ॥ १.९ . स्वाम्यादिभिर्युक्तेऽप्रधाने वा ब्योम्सुपो भवन्ति । गोषु स्वामी, गवां स्वामी। गोष्वीश्वरः, गवामीश्वरः। गोषु दायादः, गवां दायादः। गोषु साक्षी, गवां साक्षी । गोषु प्रतिभूः, गवां प्रतिभूः । गोषु प्रसूतः, गर्वा प्रसूतः । है. स्वामोराधिपतिदायादसाक्षिप्रतिभूपस्तैः ॥ १२॥९८ ॥ एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी, ईश्वरः......। पा० स्वामीश्वराधिपतिदायावसाक्षिप्रतिभूप्रस्तश्च ॥ २१॥३९॥ सि.की.नं. १३५। एभिः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठयामेव प्राप्तायां पाक्षिकसप्तम्यर्थ वचनं । गा-गोषु वा खामी, प्रसूतः इत्यादि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 96 97 98 99 100