Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 94
________________ परिशिष्ट षष्ठी नित्यं स्यात् । सर्पिषः, सप्पिषोः सप्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव । तैलं सप्पिषो जानाति । पा० ज्ञोऽविदर्थस्य करणे ॥ २॥३॥५१ ॥ सि० को० नं०१२॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् । ५५ क्तस्य सदाधारे ॥ १।३।१६७ ॥ सति वर्तमाने यःक्तः आधारे च तदन्तस्य धातोः-कर्मणि कर्तरि च ङसोसामो भवन्ति । सति क्तः-राज्ञां मतः, राज्ञां पूजितः, प्रजानां कान्तः । आधारे क्तः-इदमोदनस्य भुक्तम् । इदं सक्तूनां पीतम् , इदमेषामासितम् । है. क्तयोरसदाधारे ॥ २॥२९॥ सतोवर्तमानादाधाराच्चान्यत्रार्थे यौ तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञा पूजितः । इदं सक्तूनां पीतम् । पा० कस्य च वर्तमाने ॥ २॥३॥६७ ॥ सि० को० नं० १२५ । वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । राज्ञां मतो बुद्धः पूजितो वा । अधिकरणवाचिनाच ॥ २॥३॥६० ॥ सि० को० नं. १२६ । तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा। ५४ कर्मणि गुणे ॥ १।३।१६९ ॥ उणादिवर्जितस्य कृतः कर्मणि गुणे सोसामो वा भवन्ति । नेता अश्वस्य सुघ्नम् । गुण इति किम् ? नेताऽश्वस्य । कर्मान्तरापेक्षत्वं गुणत्वं, अप्रधानाधिकारादतो द्विकर्मकाणामिहोदाहरणम् । है. कर्मणि कृतः ॥ २।२१४३ ॥ कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् । पा० कर्तृकर्मणोः कृति ॥ २॥३॥६५॥ सि. को. नं. ११३।। कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः। जगतः का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100