Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
स्वोपज्ञभाष्य–टीकालङ्कृतम्
सूत्रम् – बाह्या - ऽभ्यन्तरोपध्योः ।। ९-२६ ॥
भा० - व्युत्सर्गो द्विविधः - बाह्योऽभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । अभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६ ॥
टी० - व्युत्सर्गो विविध इत्यादि । विविधस्योत्सर्गो व्युत्सर्गः । संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सर्गः । स द्विप्रकारः बाह्याभ्यन्तरभेदात् । तत्र तयोर्बाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः । उपग्राहकत्वादुपकारत्वादुपधिः । अभ्यन्तरः शरीरस्य कषायाणां वेति । शरीरस्य पर्यन्तकाले विज्ञायाकिञ्चित्करत्वं शरीरकं परित्यजति उज्झति । यथोक्तम् (भग० श० २, उ० १ सू० ९५ ) - " जं पि य इमं सरीरं इर्ड कंर्त " इत्यादि । क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सर्गः - परित्यागो मनो - वाक्- कायैः कृतकारिता - Sनुमतिभिश्चेति ॥ २६ ॥
सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तन्निरूपणायाहसूत्रम् — उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ ९–२७ ॥
ध्यानस्य लक्षणम्
भा० – उत्तम संहननं वज्रर्षर्भनाराचं वज्रनाराचं नाराचं अर्धनाराचं च । तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥
टी० -- उत्तमं प्रकृष्टं संहननम् - अस्थां बन्धविशेषः । उत्तमं संहननमस्येत्युत्तमसंहननं, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् । वज्रं - कीलिका, ऋषभः - पट्टः, नाराचो - मर्कटबन्धः । प्रथमं त्रिर्तययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वर्षभौ न स्तः । ततो वज्रर्षभं अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः । उत्तम संहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योतमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् । अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाग्रं, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रप्रचारो निरोधः । अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् । केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः । नह्यवाप्तकेवलस्य
१ छाया
सूत्रे २६-२७ ]
अधुना व्युत्सर्गे व्याख्यायते----
यदपि च इदं शरीरमिष्टं कान्तम् ।
२ ' भमर्धवज्रनाराचं च' इति घ-पाठः । ३ 'नाराचं कीलका' इति ग-पाठः । ४ 'त्रिनयन' इति च पाठः । ५ ' मन्यत्राथवा निरोधः' इति चन्पाठः ।
Jain Education International
२५९
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396