Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
३०५
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवासगतिविशेषणाल्लोकाकाशपरिग्रहः । तस्यापि लोकाकाशस्यैकदेशग्रहणम् , अर्धत्तीयद्वीपसमुद्रद्वयमीषत्प्राग्भारोपलक्षितच गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्योत्सर्पिण्यवसर्पिणीच ग्राह्या । गतिर्नरकादिभेदेन चतुर्विधा । लिङ्ग खी-पुं नपुंसकाख्यम्, अथवा द्रव्यलिङ्ग भावलिङ्गमलिङ्गमिति । तीर्थमिति तीर्थकरत्वं प्राप्य सिद्धा इत्यादिविकल्पम् । चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदम् । प्रत्येकबुद्धबोधितः स्वयम्बुद्धसिद्धादिभेदः । ज्ञानं मति-श्रुतादिभेदम् । अवगाहनामिति शरीरावगाहग्रहणम्। अन्तरमेकसमयादिकं षण्मासान्तिकम् । सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि। अल्पबहत्वमिति क्षेत्रसिद्धाद्यन्तःपातिभेदानां परस्परं चिन्त्यते । एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वलामे कारणानि भवन्ति। एतदेव स्पष्टयति
भा०-एभिः सिद्धः साध्यः अनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः।
टी–साध्यपर्यायानाचष्टे-अनुगमनीयोऽनुगम्योऽनुसर्तव्योऽनुसृत्यः। चित्ते व्यवस्थाप्यश्चिन्त्यः व्यवस्थाप्य च व्याख्येयः-कथनीयः । एकस्य-अभिन्नस्यार्थस्य वाचकाः सर्व एते साध्यादयः । अत एव पर्यायत्वं युगपदप्रयोगात् । तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये छौ नयो पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च । पूर्वम्-अतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः । प्रत्युत्पन्न-वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः । नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ । एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसग्रह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः-ताभ्यां कृतोऽनुयोगविशेषो-व्याख्याप्रकारः॥
भा०-तद्यथा-कस्मिन् क्षेत्र सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे 'सिध्यतीति। पूर्वभावप्रज्ञापनीयस्य जन्म प्रति पञ्चदशसु कर्मभूमि जातः 'सिध्यतीति । संहरणं प्रति मानुषे क्षेत्रे 'सिध्यतीति । तत्र प्रमत्तसंयताः संयतासंयताश्व संहियन्ते ॥
टी०-तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्र सिध्यति । तत्र प्रत्युत्पप्रभावप्रज्ञापनीयस्य सिद्धिक्षेत्र सिद्धयतीति । तत्र सिद्धः प्रतिष्ठितः। तथा चागमः'इहं बोदि चइत्ता णं तत्थ गंतूण सिज्झई"। अप्राप्तस्थानस्तु नैव सिद्धः, 'कृत्यशेषत्वात् ।
१-३ 'सिध्यति' इति घ-पाठः । ४ 'प्रतिष्ठितो यः' इति च-ज-पाठः । ५ आवश्यक-निर्युक्तेः ९५९समीगाथाया अयमुत्तरार्धः, एतत्पूर्वार्धश्छायापूर्वको यथा
" अलोए पडिहया सिद्धा, लोअग्गे अपइद्विआ।" __ अलोके प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह तर्नु स्यत्वा तत्र गत्वा सिध्यन्ति । ६'कृत्यं 'इति च-ज-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396