Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
३२० तत्वार्थाधिगमसूत्रम्
[ अध्यायः १० भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति ।
पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥९॥-अनु० टी०- तदनन्तरेत्यादि । सकलकर्मक्षयसमनन्तरमालोकान्तादूर्व स गच्छति। कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूर्ध्वगौरवाच गतिरस्य भवति सिद्धा॥९॥
पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचक्रे दोलाया-मिषौ वापि यथेष्यते ।
पूर्वप्रयोगात् कर्मेह, तथा सिद्धिगतिः स्मृता ॥१०॥-अनु० टी-कुलालेत्यादि । पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता ॥१०॥ भा०-मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽपस्वलाबुनः ।
कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी-मृल्लेपेत्यादि । अलाबुनोऽप्सून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥ ११॥ भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः।
कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० टी-एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदाद् पेडाबन्धनपछेदाच गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ॥ १२ ॥ भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः।
अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥ १३॥- अनु० । टी-ऊर्वेत्यादि । ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् ॥ १३॥ भा०-यथाऽधस्तिर्यगूर्व च, लोष्टवास्वग्निवीतयः।
स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥१४॥-अनु० टी०-यथेत्यादि । यथाक्रममधोगमनादि । लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तयोर्ध्वगतिरात्मनाम् ॥१४॥
१'यापि' इति घ-पाठः । २'स्मृताः' इति ज-पाठः । ३ 'ऊर्ध्वमित्यादि' इति ज-पाठः। ४ 'वीचयः'
इति ग-पाठः।
५'स्वभावगतिरात्मनः' इति ग-पाठः।
६ 'लोष्टत्ववीचयो'इति ग-पाठः।
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396