Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३२३ मा०-तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः।
सम्यक्त्तवसिद्धतावस्था, हेत्वभावाच निष्क्रियाः ॥२१॥-अनु० ० तादात्म्येत्यादि। स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्य तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिकसम्यक्त्वसिद्धतावस्थाः । हेस्वभावाच निष्क्रियाः क्रियापरिणाम प्रति न किश्चित् तेषामस्ति निमित्तमिति ॥२१॥ __भा०–ततोऽप्यूर्ध्वगतिस्तेषां, कस्मानास्तीति चेन्मतिः।
धमास्तिकायस्याभावात् स हि हेतुगेंतेः परः ॥ २२ ॥ - टी-ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोपि गतिस्तेषां कस्मान भवतीति चेत् गतेहेंतुर्धर्मास्तिकायः परः--प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः ॥ २२ ॥ भा०-संसारविषयातीतं, मुक्तानामव्ययं सुखम् ।
अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः ॥ २३ ॥ टी०-संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्यावा परम-प्रकृष्टं परमर्षिभिः-तीर्थकरादिभिरभिहितम् ॥ २३ ॥ भा-स्यादेतदशरीरस्य, जन्तोनष्टाष्टकर्मणः ।
कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु ॥ २४ ॥ टी०-स्यादेतदित्यादि। नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्त सुखसम्भव इत्यत्र मे शृणु ॥२४॥ भा०-लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते।
विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५॥ री-लोके इत्यादि। प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखषेदनाया- . थाभावे, कर्मविपाके च सवेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे॥२५॥
उदाहरणानि यथाक्रमं दर्शयतिभा०-सुखो वहिः सुखो । -विषयेष्विह कथ्यते।
दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ ०-सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा-पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् ।
कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी०-पुण्यकर्मेत्यादि । गतार्थावेतौ श्लोकौ ॥ २७ ॥ १'संशृण' इति ग-पाठः । २ 'गतार्थावेव' इति ज-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396