Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 354
________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३२५ भा०-यस्त्विदानी सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमान: कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन् देवतयोपपद्यते। ___टी०-यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पनो भिक्षुर्मोक्षाय घटमानो-मोक्षार्थकृतोत्साहो दुःषमाकालदोपात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाचाल्पशक्तिः-अतीव स्तोकवीर्यः कर्मणां च-मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावादकृतार्थ एव-अक्षपितकर्माष्टक एव उपरमति-कालं करोति स खलूपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने वा देवत्वायोपपद्यतेदेवत्वेनोपपद्यत इत्यर्थः। भा०--तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्मच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यतीति॥ टी-तत्र-सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतकर्म-पुण्यकर्म तस्य फलं-विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादौ मनुष्यजातौ इक्ष्वाकुकुलादिषु शीलवत्सु-सचेष्टेषु विद्या-मुक्त्यनुगुणं ज्ञानं विनयः-अभ्युत्थानादिः विभव:धन-धान्य-द्रविणसम्पत् विषयाः-शब्दादयः सर्वेषामेवैषां विस्तरः-प्राचुर्य विस्तर एव विभूतिस्तद्युक्तेषु प्रत्यायातिमवाप्य-जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्ध बोधिमवामोति । सम्यग्दर्शनमादिर्ययोनिचारित्रयोर्बोधिस्वरूपयोस्तं बोधिमवाप्नोति । ज्ञानचरणे बोधिशब्दवाच्ये समवामोतीत्यर्थः । अनेन-उक्तलक्षणेन कुशलाभ्यासानुबन्धक्रमेण सुखपरम्परायुक्तेन परं-प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इति एवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादिहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र इति । उक्तं च "एवं संवरवर्मा, पिना सम्यक्त्ववाहमधिरूढः। सज्ज्ञानमहाचापो-ध्यानादितपःशितपृषकैः ॥१॥-आर्या १विद्या सूक्तयः' इति च-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396