Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३२७ इदमुच्चै गरवा-चकेन सत्त्वानुकम्पया दृब्धम्। .. तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥५॥-आर्या यस्तत्त्वाधिगमाख्यं, ज्ञास्यति च करिष्यते च तत्रोक्तम् ।
सोऽव्याबाधं सौख्यं, प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥-आर्या टी०-सम्प्रदायाविच्छेदेनायातमहद्वचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिकसुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम्-उपहतविज्ञानमवलोक्य लोकमुच्चै गरवाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्र भव्यसत्वानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति । तदेतच्छास्त्रं जीवादितस्थाषि. गमार्थ योऽवमोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपम परमार्थ मोक्षमचिरेण प्राप्स्यतीति ॥ इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसंग्रहे भाष्यानुसारिण्यां वृत्ती
मोक्षस्वरूपनिरूपको दशमोऽध्यायः ॥ १०॥
॥ तत्समाप्तौ च समाप्तेयं तत्त्वार्थटीका ॥ आसीद् दिन्नगेणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो
विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्ति शम् । वोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी
ज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १॥-शार्दल. पत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्ष विमलम् ।। शिष्यगणसम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥२॥-आर्या तस्याभूत् परवादिनिर्जयपटुः सहीं दधच्छूरता
नाम्ना व्यज्यत सिंहसर इति च ज्ञाताखिलार्थागमः। शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्
भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥३॥-शाईल. निर्धततमःसंहति-रखण्डमण्डलशशाङ्कसच्छाया। अद्यापि यस्य कीर्ति--भ्रमति दिगन्तानविश्रान्ता ॥ ४॥-आर्या शिम्यस्तस्य बभूव राजि( ज? )कशिरोरत्नप्रभाजोलक
व्यासेगाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः। 'गणी ' इति ज-पाठः। २ ‘पदः' इति ङ पाठः । ३ 'राजत' इति च-पाठः । ४ 'जातक' इतिपाठः। ५ 'सनच्छुरित.' इति च-पाठः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396