Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 350
________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् __ ३२१ भा०-अतस्तु गतिवैकृत्य-मेषां यदपलभ्यते । कर्मणः प्रतिघाताच, प्रयोगाच्च तदिष्यते ॥१५॥ टी०-अतस्त्वित्यादि । अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्त्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् ॥१५॥ मा०-अघस्तिर्यगोचं च, जीवानां कर्मजा गतिः। ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी०-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगूर्व व कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥१६॥ मा०-द्रव्यस्य कर्मणो यब-दुत्पत्त्याऽऽरम्भ-वीतयः। समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० टी०-द्रव्यस्येत्यादि । द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्षः-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति ॥ १७॥ भा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह। युगपद् भवतो यवत्, तथा निर्वाण-कर्मणोः ॥१८॥-अनु० टी.-उत्पत्तिश्चेत्यादि । प्रकाश-तमसोर्यथा युगपदुत्पत्ति-विनाशौ । यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाण कर्मक्षयधेत्येक एव कालः । तथाऽन्यत्राप्युक्तम् सं ततो बन्धनमोक्षाचं जीवः प्रवेगतो याति । न त्वैरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वम् ॥१॥-आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्वम् । न तु गतलेपालाबू--रुदयाति जले निममापि ॥२॥-, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् । तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् ॥ ३॥" अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्मामिशिखाया गति-रन्या कर्मानिलवशाद्धि ॥ ४ ॥" १'वचयः' इति ग-पाटः। २'उत्पत्तिरित्यादि ' इति च-ज-पाठः। ३ ‘स सततो' इति च-अ-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396