Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 347
________________ ३१८ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०-संसारमुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशय निर्वाणसुखमेवामोतीति ॥ ७ ॥ टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिक एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः । निरुपममिति नास्ति इह किञ्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निर्वाणमुखमवाप्नोतीति । सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग विगदः।। निःप्रणयो निद्वेषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥-आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-, व्यावाधाभावाच स, सर्वज्ञत्वाच्च भवति परमसुखी।। व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥" अनुपमममेयमव्यय-मनघं शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥ ४॥-, त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि। नास्ति रागमपवि-ध्य तत्र किश्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक-त्वं वीय-सिद्धत्व-दर्शन-ज्ञानैः। आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-" सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विद्धं सुबद्धं भवतीति ।। भा०--एवं तत्त्वपरिज्ञानाद्, विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० टी-एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥ वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः । ३ 'स्वस्य झस्यापि' इति :पाठः। ४ 'कं निरुपमं' इति घ-पाठः। ५'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396