Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 332
________________ ३०३ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत्। लोकान्तादूर्ध्व मुक्तस्य गतिः किमर्थ न भवतीति । अत्रोच्यते टी–एवमूर्ध्वगौरवेत्यादि । संसारोदधौ भवसलिले भवः-औदारिकादिकायनिवृत्तिः । भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेन अधस्तिर्यगृवं च गच्छति । ततः सम्यग्दर्शनज्ञानावरणसलिलाीकृतप्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते-ऊवं गच्छत्या लोकान्तादिति को नियमः १ स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति । अत्रोच्यते भा०-धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रहकारणाभावात् परतो गतिर्न भवत्यप्सु अलावुवत् । नाधो न तियेगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति ॥६॥ टी०-धर्मास्तिकायाभावादिति । अस्त्येव निवारकं धर्मद्रव्यं तद्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम्, न त्वगच्छन्तं झर्ष बलाद् वारि नयति । एवं गतिपरिणतस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति । स च लोकात् परतो नास्ति । तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिनास्ति अप्सु यथाऽलाबुनः । अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकाविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् । ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति । यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिनभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति ॥ यथोक्तम् "धर्माभावाचालोके स प्रतिहन्यते न लोकाग्रे ॥ [ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च ॥१॥ मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् । मुक्तस्य संमृतिर्हि न युक्ता भ्रमणं हि संसारः ॥२॥ संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् । अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396