Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 331
________________ ३०२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १० सप गतिपरिणाम ऊर्ध्वमेव भवति नास्तिर्यग वा । पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि । तदाह भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजोद्भेदादङ्कुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदौहुंदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति । टी-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि । तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते । गुणवद्भूमिभागारोपितमिति बीजावस्था । गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु जातं ततश्चोच्छेनावस्थाद् बीजोद्भेदादङ्कुरः प्रवालं किसलयं पर्ण जरठं व ततः पुष्पं ततः फलं एषां वीजारोपणोद्भेदादकुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च । आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः । एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति । सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति । भा०–तदेव गुरुकृष्णमृत्तिकालेपैनैर्बहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तज्जलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा भृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोवं गच्छति आ सलिलोवंतलात्।। टी०–तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैर्धनैः-निरन्तरैर्बहुभिः-अष्टाभिदमवेष्टंने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् । यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवो गच्छत्या सलिलोवंतलादित्येष दृष्टान्तः । सम्प्रति दार्शन्तिकं दर्शयति भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगूवं च गच्छति १'तूना' इति ज-पाठः। २ मृत्तिकावेष्टन' इति ग-पाठः । ३ ' तलप्रविष्टं' इति ग-पाठः । ४.वेटनकाल' इति च-ज-पाठः। ५'तलप्रतिष्ठं ' इति च-ज-पाठः। ६ 'सम्बन्धेन' इति ग-पाठः । ७ 'मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396