Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 327
________________ २९८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० टी-'उपशमे भवः उपशमेन वा निवृत्तः औपशमिकः, स आदिर्येषां ते इमे औपशमिकादयः। आदिग्रहणेन क्षायिक-क्षायोपशमिको-दयिक-पारिणामिका गृहीताः । सेत्स्यल्लक्षणं भव्यत्वं औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि । एषामभावः औपशमिकादिभव्यत्वाभावः । चशब्दः समुच्चये । औपशमिकाद्यभावाद् भव्यत्वाभावाच्च मुक्तात्मा भवति । किं सर्वेषामौपशमिकादीनामभावः । तदुच्यते-अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति । औपशमिक-क्षायोपशमिकौ-दयिकाः सर्वथा न सन्त्येव । क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः । केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि । पारिणामिके तु भावे भव्यत्वमेव केवलं सिंद्धे न सम्भवति । तच्चौपशमिकादिग्रहणाद भव्यत्वं सगृहीतमेव, किमर्थं पुनर्भव्यत्वग्रहणम् ? उच्यते-पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः पारिणामिकाः प्रायेण सन्तीति ज्ञापनार्थम् । अस्तित्व-गुणवत्त्वा-ऽनादित्वा-ऽसङ्ख्येयप्रदेशवत्त्व-नित्यत्वादयः सन्त्येव । एतदनुसारिभाष्यम् भा०-औपशमिक क्षायोपशमिको-दयिक पारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्व-केवलज्ञान-केवलदर्शन-सिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥ ४॥ टी-औपशमिकेत्यादि । औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः । एषामभावाद् भव्यत्वाभावाच मोक्षः । अन्यत्र केवलसम्यक्त्वादिभ्यः इत्युपपदलक्षणा पश्चमी । दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्यास्तस्मान्मुक्तस्यापि भवन्तीति ॥ ४ ॥ स पुनर्मुक्तात्मा यत्र मुक्तः समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टे जगाद सूत्रम्-तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥ १०-५॥ भा०-तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं औपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्च गच्छत्या लोकान्तात् । कर्मक्षये देहवियोग-सिध्यमानगतिलोकान्तप्राप्तयो यस्य युगपदेकसमयेन भवन्ति । टी-तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते औपशमिकादिभव्यत्वाभावो वा । तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छति । कियतीं १ 'उपशमनेन ' इति ग-पाठः। २ 'सिद्धा न सन्ति' इति ङ-पाठः । ३ 'कादीनां ' इति ग-पाठः । ४ 'केवलदर्शनं' इति उ-पाठः। ५ स्य ' इति घ-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396