Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 304
________________ सूत्रे ४०-४१ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्क्षयाच्छुद्धम् ॥ १२ ॥ चित्र चित्रपटनिभं त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्व, सालोकं सर्वभावज्ञम् ॥ १३ ॥ वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात् ॥ १४ ॥,, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य ॥ १५ ॥ - आर्या 19 11 भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ॥ ३९ ॥ Jain Education International २७५ सूत्रम् - पूर्वविदः ॥ ९-४०॥ भा० - आधे शुक्ले ध्याने पृथक्त्ववितर्कैकत्ववितर्फे पूर्वविदो भवतः ॥४०॥ टी० - पूर्वविदो य उपशान्त क्षीणकषायौ तयोर्भवतः । सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् । पूर्वं प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः । एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ॥ ४० ॥ अथ पञ्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच सूत्रम् — परे केवलिनः ॥ ९-४१ ॥ भा०- परे हे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥ ४१ ॥ अन्तिम शुक्लध्यानअत्राह — उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने द्वयस्य स्वामिनः इति । तत् कानि तानीति ? अत्रोच्यते For Personal & Private Use Only टी० परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तच्च योगनिरोधका भवति । वेद्य- नाम - गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धात सामर्थ्यादचिन्त्यैश्वर्यशक्ति योगाद । युष्कसमीकृतानां मनो वा काययोगपरिणतस्यौदा रिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्त कमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरत क्रियानिवृत्तिध्यानावाप्तेः । उक्तं च १ ' भावज्ञः' इति ङ-पाठः । २ ' शुभध्याने ' इति ग-पाठः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396