Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 323
________________ २९४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः। "विभाषा गुणेऽस्त्रियां" (पा० अ० २, पा० ३, मू० २५) इति ॥ भा०-हेतौ पञ्चमीनिर्देशः। मोहक्षयादिति पृथकरणे क्रमप्रसिद्धयर्थम् । यथा--गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते। ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति। ततः केवलमुत्पद्यत इति ॥१॥ टी-हती पञ्चमीनिर्दशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरापरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबहलाभ्रपटलाच्छादितमण्डलस्य सङ्कुचितकिरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्धयर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तमुहर्तमानं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे-वीसमिऊण नियंठो” इत्यादि "चरिमे नाणावरणं" इत्यादि ॥१॥ भा०-अत्राह--उक्तं (पृ० २९३) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते टी-अत्राह-उक्तमित्यादिनोत्तरमूत्रं सम्बनाति । मोहक्षयात् केवलज्ञानो. त्पत्तिः। अथैषां मोहादीनां क्षयः कथं-केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः-यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच प्रतिक्षणं बधन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह कर्मपरिक्षये हेतू सूत्रम्---बन्धहेत्वभाव-निर्जराभ्याम् ॥ १०-२ ॥ ____टी-आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा--आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥ १ तथा विपक्षे' इति उ-पाठः । २-३ छाया विधामयित्वा निर्ग्रन्थः: चरमे ज्ञानावरणम् । ४ 'सन्तानं' इति ग-पाठः । ५ 'प्रदेशिनां ' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396