Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 271
________________ तासा २४२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ भिष्वङ्गो-निर्ममता। प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारित्वायोग्यता । तद्वर्जनात् तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाघवमुपजायते । ततथाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः । भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति । अत्र केचिन्मोहान्धतमसछाया(च्छ)नाचोद . यन्ति-आतापनशिरोलुश्चनानशनकायोत्सर्गादिकायक्लेशोपक्रमेण न कर्मकायक्लेशस्य विफल ल विच्छेदो भवतीति प्रतिजानते । विकल्प्य चैनमर्थ युक्त्या प्रसाधयन्ति । दुःखं चेत् पूर्वकृतजं व्यर्थो यत्नो न वा क्षयः, कर्माभावो न वा मोक्षो वेति नाकृतद्वन्द्वः। यत् तदनेकेनोपक्रमेणातापनादिना प्रयोगेणोपक्रमिकं बुद्धिपूर्वकमात्मानं तापयतां दुःखमुपजायते तत् किं पूर्वकृतकर्महेतुकमाहोस्विदातापनाशुपक्रमेणैव जनितमिति १ । तत्र यदि प्रथमो विकल्पः पूर्वकृतकर्महेतुकं तदातापनादिर्ज दुःखमेव तर्हि व्यर्थ एवातापनाद्युपक्रमः । पूर्वकृतकर्मविपाके ह्यातापनादिप्रयत्नस्यानीश्वरत्वदर्शनानारकादिष्विति । ततश्चाहतानामात्मसन्तापनाशुपक्रमविशेषवैयर्थ्यमन्यजन्मकृतकर्मफलोपभोगित्वान्नारकादिवदिति प्रयोगः । न च तत् पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वान्नर्तकीभ्रूभङ्गवदिति । अथ द्वितीयो विकल्प:-आतापनाशुपक्रमजनितमेव दुःखं, न पूर्वकृतकर्महेतुकम् , एवं तार्ह न वा क्षयः, कर्मणां क्षयाभावो वा यत्नवैयर्थं वेति वाशब्दाद् विकल्पः। नहि पूर्वकृतस्य पापस्य क्षयः सिद्धयति, तत्फलाप्रतिवेदनात्, अदत्तफलत्वादित्यर्थः । न तस्य कर्मणः परिक्षयः, अदत्तफलत्वात्, इतरादत्तफलकर्मवत् । अथ आतापनादिप्रयत्नोऽपि पूर्वकृतहेतुक एवाभ्युपेयते, न तर्हि कश्चित् पुरुषकारोऽस्तीति प्राप्तः काभावः । असति च पुरुषकारे प्राक्तनस्याकृतत्वादभावः स्यात् कर्मणो यस्यायमातापनादिप्रयत्नं फलमभ्युपगम्यते तदपि प्राक्तनं कर्म न सिध्यति इत्यत्यन्ताभाव एव कर्मणां प्राप्तः । न वा मोक्षः। अथ योऽसौ पापस्य कर्मणो विपाकः सोऽपि कर्मैव प्रतिज्ञायते, अतस्तदप्यौपक्रमिकं कर्म प्राप्नोति, पापविपाकत्वात् । अतो न सिध्यति मोक्षः, पापक्षयासम्भवात् । न वा पापस्य कर्मणः कुशलो विपाक आतापनादिः समस्ति, कुशलस्यापि अकुशलविपाकप्रसङ्गादिति । स एव मोक्षाभावप्रसङ्गः । नैवाहतानां पापस्य कर्मणः क्षयः सम्भाव्यते। असञ्चेतिता कृतबन्धतः असञ्चेतितमपि प्राणातिपातादि कुर्वनेनसा युज्यते । लोकश्च व्याप्तः स्थावरजङ्गमजन्तुभिः सूक्ष्म दरैश्च । तत्र चावश्यम्भावी चक्रमणादिक्रियासु जन्तुवधः। तथा अप्रकुर्वतोऽपि च पापं परेषामनुत्पादयन्तोऽपि च दुःखं कामक्रोधशोकभयादीनां निमित्तीभवन्तः पापेन युज्यन्ते । एवमसञ्चेतितबन्धतोऽकृतबन्धतश्च १'चर्याजन्तूप. ' इति उ-च-पाठः । २ ‘भावीति' इति ङ-च-पाठः । ३ ' प्रपन्नानु' इति च-पाठः । ४'कर्मणःइति उ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396