________________
૨૨૬ ॥ इति गुणाः ॥ સંસ્કાર ત્રણ પ્રકારનો છે - વેગ, ભાવના અને સ્થિતિસ્થાપક. ‘વેગ' નામનો સંસ્કાર પૃથિવી, જલ, તેજ, વાયુ અને મન આ પાંચ મૂર્તદ્રવ્યમાં રહે છે. અનુભવથી જે જન્ય છે અને સ્કૃતિનું જે કારણ છે એને ‘ભાવના' કહેવાય છે જે માત્ર આત્મામાં જ રહે છે. અન્યરૂપે થયેલી વસ્તુને મૂળ સ્થિતિમાં જે લાવે છે તેને “સ્થિતિસ્થાપક' નામની સંસ્કાર કહેવાય છે. તે સંસ્કાર ચટાઈ વગેરે સ્વરૂપ પૃથિવીમાં રહે છે.
(न्या.) संस्कारं विभजते-संस्कार इति। भावनां लक्षयति - अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृति प्रत्यपि कारणत्वादतस्तदुपादानम्।आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावन्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः। अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।(ननु'विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा। यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानस्य। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः। सा च 'दण्डी पुरुष' इत्याकारिका। न हि दण्डमजानानो 'दण्डी पुरुष' इति प्रत्येति । एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं तदनन्तरं 'दण्डी पुरुष' इत्याकारकप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष' इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं, जनिष्यमाणे 'दण्डी पुरुष' इत्याकारकस्मरणे कारणं च, स्मृतिं प्रत्यनुभवस्य कारणत्वादिति चेत्।) अत्र ब्रूमःअनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम्। तथा च दण्डप्रकारकबुधित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठकारणतायां न दण्डानुभवत्वमवच्छेदकं दण्डानुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति स्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्योक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथा हि-अनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवस्यानुभवत्वेनैव कारणतया भावनात्वावच्छिन्न-कार्यतानिरूपितानुभव-निष्ठकारणतायामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य भावनायां सत्त्वात्। नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्ध्यनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायामनुभवध्वंसेऽतिव्याप्तिः प्रसज्जते।तथाहि-ध्वंसत्वावच्छिन्नं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेन रूपेण, तत्तद्ध्वंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तद्व्यक्तित्वेनेत्येव ध्वंसप्रतियोगिनोः कार्यकारणभावः । तथा च