Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
४७४
सिरिसोमप्पहसूरि-विरइयं यद्येषयोगं युवयोः कथञ्चिदन्योन्य सादृश्यवतो विदिध्यात् । तदाक्षणेनाऽननुरूपवस्तु. सम्बन्ध जं मार्टि निजं कलङ्कम् ।।३२७१।। इत्यद्भुतं वस्तु निवेद्य पान्थः कुमार ! गच्छाम्यहमित्युवाच । विदानपूर्वार्थ-निवेदक श्वेत्यस्मै निजागाभरणान्यदात् सः ।।३२८०।। विसृज्य पथिकं प्राप कुमारो निज-मंदिरे । द्रष्टुं रत्नवती बालामुपायं पर्यचिन्तयत् ।।३२८१।। अथ पौरैः रहस्येवं विज्ञप्तं भूपतेः पुरः ।। यत्र यत्र कुमारोयं भ्राम्यति क्रीडया पुरे ||३२८२।। उपेक्ष्याऽपरकार्याणि संत्यज्य रुदतः शिशून् । अनावृत्य गृह-दाराण्यकृत्वा कस्यचित् त्रपाम् ।।३२८३।। कुमार-रूप-लावण्य-सौभाग्य-हतचेतसः । धावंति विहितोन्मादास्तत्र तत्र पुरस्त्रियः ||३२८४|| तेनाऽसमंजसं जज्ञे सर्वत्र नगरेऽधुना । अतः केनाप्युपायेन कुमारो वार्यतां भ्रमन् ||३२८५।। ततोऽवादीत्प्रतीहारं कृतलोककृपो नृपः । राजसिंह-कुमारस्य पुरतः कथ्यतामिदं ॥३२८६|| गृहान्तरेऽवस्थातव्यं कलाऽभ्यासकृता त्वया । बहिर्विहरतः पुंसो गलन्ति सकलाः कलाः ||३२८७।। इत्यादेशं प्रतीहारः कुमारस्य न्यवेदयत् । तातः किमिदमादिक्षन्मामेत्येष व्यचिन्तयत् ||३२८८।। ततोऽस्य पौरवृत्तान्तं सुमतिः प्रत्यपीपदत् । अवाप्त निर्गमोपायः कुमारस्तमभाषत ।।३२८१।। गृहान्तरेऽवतिष्ठेति तातादेशश्च दुष्करः । कौतुकं च मम द्रष्टुं कन्यां पांथ-निवेदिताम् ।।३२१०।। पुण्यमानं गुणस्फूर्ति नानाभाषासु कौशलम् । स्वान्ययोरन्तरज्ञानं न च देशान्तरं विना ||३२११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540