Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 502
________________ ४७७ सुमइनाह-चरियं तं परिव्राजकोऽवादीत् करोषि यदि मे वचः । विदधे ते तदा वश्यां गृहदासीमिव श्रियम् ||३३११।। शिवोऽवोचत्तवादेशं करिष्याम्येष निश्चितम् । दारिद्रयं मे प्रयातु त्वत्प्रसाद-गलहस्तितम् ।।३३२०।। परिवाडवददच्छ यद्येवं शवमक्षतम् । लभस्व क्वापि स प्रापदुदद्धं पुरुषं द्रुमे ||३३२१|| तस्मै न्यवेदयत्सो पि त्रिदण्डी शिवमब्रवीत् । अद्य कृष्ण-चतुर्दश्यां स्मशानं नय तं शवम् ||३३२२|| बलि-प्रदीप-पुष्पादि-पूजोपकरणं तथा । नीतं सर्वं शिवेनापि ययौ तत्र त्रिदण्ड्यपि ||३३२३।। यत् क्वचित् शरदभौघ शुभ्रादभास्थिदंतुरम् । क्वचित् स्थितानलज्वाला-जाल-पल्लविताम्बरम् ||३३२४।। क्वचित्कलित-कंकाल-काल-वेताल-भीषणम् । क्वचित्क्रीडद्ताशङ्क-शाकिनी-कुल-सङ्कुलम् ||३३२७।। क्वचिद्राक्षसदुर्वीक्ष्यं क्वचिद्भूतभयानकम् । क्वचिन्मघूक-पूत्कारं क्वचिद् घोर-शिवारवम् ||३३२६।। चक्रेऽस्मिन मण्डलं दत्त दीप-दीपक-मण्डलम् । तस्मिन्निवेशितस्तीक्ष्ण-करवाल-करः शवः ||३३२७।। शव-पादतलाभ्यङ्गकर्मण्यादिश्य तं शिवम् । मन्त्रं संस्मर्तुमारेभे त्रिदंडी ध्याननिश्चलः ॥३३२८|| स्मशानं प्रचुरापायं निशितासिकरः शवः । त्रिदण्डी क्रूरकर्मा चेत्येवमालोचयत् शिवः ||३३२१।। ततः पित्रा समादिष्टामनिष्टहननक्षमाम् । सोऽस्मरं तत्परः पञ्च-परमेष्टि-नमस्क्रियाम् ||३३३०।। क्षणान्तरे परिव्राजः प्रौढमन्त्र-प्रभावतः ।। चचाल किञ्चिदुत्तस्थौ तथैवन्यपतच्छवः ||३३३१|| शवस्य पतने किञ्चिद्धिचिन्त्य क्षणमात्मनः । त्रिदंडी स्मर्तुमारेभे मन्त्रमेष विशेषतः ।।३३३२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540