Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 500
________________ ४७५ सुमइनाह-चरियं ततो देशान्तरं यामीत्युक्तः सुमतिरब्रवीत् । अस्मिन्नर्थे सहायोस्मि कुमार ! कुरु वाञ्छितम् ||३२१२।। अनिवेद्यैव कस्यापि निशितासिकरो निशि । पुरात्सुमतिना सार्द्ध राजपुत्रो विनिर्ययौ ।।३२१३।। क्रमेण पृथिवीं क्रामलटव्यां देवतागृहे । प्रसुप्ता निशि शुश्राव साधकस्यार्त्तमारवम् ।।३२१४|| विभत्कृपां कृपाणं च कुमारस्तं प्रतिव्रजन् । साक्षाद्राक्षसमद्राक्षीत्कक्षा-निक्षिप्त-साधकम् ||३२१५।। तमूचे तिष्ट शिष्टात्मन्नमुं च मुञ्च साधकम् । साधकेनापराद्धं किं वराकेणामुना तव ? ।।३२१६|| राक्षसः स्माह- भद्रैष मां वशीकर्तुमुद्यतः ।। अयाचिषं महामांसं सप्तरात्रमुपोषितः ||३२१७।। तदेतन्नक्षमो दातुं महं चातिबुभुक्षितः । ततः कथममुं मुञ्चे त्वमेव परिभावय ||३२१८।। अवोचद्राजपुत्रस्तं- यद्येवं मुञ्च साधकम् । वितरामि महामांसं महात्मन्नहमेव ते ||३२११।। इत्युक्तः साधकं त्यक्त्वा प्रीतः प्रोवाच राक्षसः । देहि त्वमेव तद्यो गा निवर्त्तयति सोऽर्जुनः ||३३००।। कुमारः खड्गदण्डेन छित्त्वा सत्त्वमहोदधिः । निजाङ्गाज्जाङ्गलं यावत् प्रदातुमुपचक्रमे ।।३३०१।। तावज्जगाद सानन्दं राक्षसो नृपनन्दनम् । तुष्टोस्मि तव सत्त्वेन परप्राण-प्रदायिना !|३३०२।। वरं वृणु ततोऽवोचत् कुमारो राक्षसं प्रति । तुष्टो सि यदि मेऽभीष्टं साधकस्य तदा कुरु ||३३०३।। करिष्यामीत्यसौ जल्पन् अमोघं देवदर्शनम् । इत्यस्मै राक्षसश्चिन्तारत्नं दत्वा तिरोदधे ||३३०४।। निवृत्य राजपुत्रोपि तत्रैवायतने ययौ । अतिवाह्य निशाशेषं समित्रश्चलितोऽग्रतः ॥३३०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540