Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 508
________________ ४८३ सुमइनाह-चरियं एकदा केवल स्त्रीभिः विविधायुधपाणिभिः । दूरादुत्सार्यमाणेषु नृषु लोचनगोचरात् ||३३१६।। सुखासन-समासीना चैत्यं रत्नवती ययौ । स्त्रीरूपौ तावुभौ तत्र गत्वा पूर्वमवस्थितौ ||३३१७।। जिनेन्द्र-बिम्बमानW पुष्प-धूपाक्षतादिभिः । कुमारममरीतुल्य-दर्शनं व ददर्श सा ||३३१८।। चिरं निरूप्य सानन्दं निजगाद नृपात्मजा । कुमारस्त्रीमपूर्वेव भवती प्रतिभाति मे ||३३११।। किं सदैवात्रवास्तव्या समायाताऽथवान्यतः । मित्रस्त्री निजगादैषा स्थानादत्रागताऽन्यतः ||३४००।। रत्नवत्यवदद्भद्रे त्वत्सखी मम सम्मुदम् । दृष्ट्वापि तनुते तेन समन्यैतु मया समम् ||३४०१।। रत्नवत्या सहावासे जग्मतुः कृत्रिम-स्त्रियौ । तया रचित-सन्माने चिरं तत्रैव तस्थतुः ||३४०२।। अथैकदा कुमारस्त्री राजकन्यामभाषत । न ज्ञायते पुलिन्द्रः स तव पूर्वभव-प्रियः ||३४०३|| ऋते कञ्चन-भर्तारं कन्यका कान्तिमत्यपि । विना सुवर्ण-सम्बन्धं मणीव न विराजते ||३४०४|| ततः कंचिज्जगन्नेत्रा नन्दनं नृपनन्दनम् । विशाल-कुल-संभूतं परिणेतुं त्वमर्हसि ||३४०५।। राजकन्या जगादैवं मुक्त्वा पूर्वभव-प्रियम् । न शक्रमपि भर्तारं करोमीत्येष निश्चयः ||३४०६।। उवाचैवं कुमारस्त्री यद्येवं यौवनं वृथा । भोगशून्यं तवारण्ये मालत्या मुकुलं यथा ||३४०७।। राजकन्याऽवदच्चित्तविश्रान्तौ क्रियते प्रियः । सामेत्वद्यैव संजज्ञे किमन्येन प्रयोजनम् ||३४०८।। अभाविष्ट कुमारस्त्री तव पूर्वभव-प्रियः । अभिज्ञानेन केनैष विज्ञेय ? इति कथ्यताम् ||३४०१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540