________________
४८३
सुमइनाह-चरियं
एकदा केवल स्त्रीभिः विविधायुधपाणिभिः । दूरादुत्सार्यमाणेषु नृषु लोचनगोचरात् ||३३१६।। सुखासन-समासीना चैत्यं रत्नवती ययौ । स्त्रीरूपौ तावुभौ तत्र गत्वा पूर्वमवस्थितौ ||३३१७।। जिनेन्द्र-बिम्बमानW पुष्प-धूपाक्षतादिभिः । कुमारममरीतुल्य-दर्शनं व ददर्श सा ||३३१८।। चिरं निरूप्य सानन्दं निजगाद नृपात्मजा । कुमारस्त्रीमपूर्वेव भवती प्रतिभाति मे ||३३११।। किं सदैवात्रवास्तव्या समायाताऽथवान्यतः । मित्रस्त्री निजगादैषा स्थानादत्रागताऽन्यतः ||३४००।। रत्नवत्यवदद्भद्रे त्वत्सखी मम सम्मुदम् । दृष्ट्वापि तनुते तेन समन्यैतु मया समम् ||३४०१।। रत्नवत्या सहावासे जग्मतुः कृत्रिम-स्त्रियौ । तया रचित-सन्माने चिरं तत्रैव तस्थतुः ||३४०२।। अथैकदा कुमारस्त्री राजकन्यामभाषत । न ज्ञायते पुलिन्द्रः स तव पूर्वभव-प्रियः ||३४०३|| ऋते कञ्चन-भर्तारं कन्यका कान्तिमत्यपि । विना सुवर्ण-सम्बन्धं मणीव न विराजते ||३४०४|| ततः कंचिज्जगन्नेत्रा नन्दनं नृपनन्दनम् । विशाल-कुल-संभूतं परिणेतुं त्वमर्हसि ||३४०५।। राजकन्या जगादैवं मुक्त्वा पूर्वभव-प्रियम् । न शक्रमपि भर्तारं करोमीत्येष निश्चयः ||३४०६।। उवाचैवं कुमारस्त्री यद्येवं यौवनं वृथा । भोगशून्यं तवारण्ये मालत्या मुकुलं यथा ||३४०७।। राजकन्याऽवदच्चित्तविश्रान्तौ क्रियते प्रियः । सामेत्वद्यैव संजज्ञे किमन्येन प्रयोजनम् ||३४०८।। अभाविष्ट कुमारस्त्री तव पूर्वभव-प्रियः । अभिज्ञानेन केनैष विज्ञेय ? इति कथ्यताम् ||३४०१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org